(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.172. अध्यायः 172
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मेण दुर्योधनंप्रति शिखण्डिनः स्त्रीपूर्वत्वमभिधाय तेन सह युद्धाकरणप्रतिज्ञा ॥ 1 ॥


Mahabharata - Udyoga Parva - Chapter Text


भीष्म उवाच। 5-172-0x(3879)(37774)
रोचमानो महाराज पाण्डवानां महारथः।
योत्स्यतेऽमरवत्संख्ये परसैन्येषु भारत ॥ 5-172-1(37775)
पुरुजित्कृन्तिभोजश्च महेष्वासो महाबलः ।
मातुलो भीमसेनस्य स च मेऽतिरथो मतः ॥ 5-172-2(37776)
एष वीरो महेष्वासः कृती च निपुणश्च ह ।
चित्रयोधी च शक्तश्च मतो मे रथपुङ्गवः ॥ 5-172-3(37777)
स योत्स्यति हि विक्रम्य मघवानिव दानवैः ।
योधा ये चास्य विख्याताः सर्वे युद्धविशारदाः ॥ 5-172-4(37778)
भागिनेयकृते वीरः स करिष्यति संगरे ।
सुमहत्कर्म पाण्डूनां स्थितः प्रियहिते रतः ॥ 5-172-5(37779)
भैमसेनिर्महाराज हैडिम्बो राक्षसेश्वरः ।
मतो मे बहुमायावी रथयूथपयूथपः ॥ 5-172-6(37780)
योत्स्यते समरे तात मायावी समरप्रियः ।
ये चास्य राक्षसा वीराः सचिवा वशवर्तिनः ॥ 5-172-7(37781)
एते चान्ये च बहवो नानाजनपदेश्वराः ।
समेताः पाण्डवस्यार्थे वासुदेवपुरोगमाः ॥ 5-172-8(37782)
एते प्राधान्यतो राजन्पाण्डवस्य महात्मनः ।
रथाश्चातिरथाश्चैव ये चान्येऽर्धंरथा नृप ॥ 5-172-9(37783)
नेष्यन्ति समरे सेनां भीमां यौधिष्ठिरीं नृप ।
महेन्द्रेणेव वीरेण पाल्यमानां किरीटिना ॥ 5-172-10(37784)
तैरहं समरे वीर मायाविद्भिर्जयैषिभिः ।
योत्स्यामि जयमाकाङ्क्षन्नथ वा निधनं रणे ॥ 5-172-11(37785)
वासुदेवं च पार्थं च चक्रगाण्डीवधारिणौ ।
सन्ध्यागताविवार्केन्दू सभेष्येते रथोत्तमौ ॥ 5-172-12(37786)
यं चैव ते रथोदाराः पाण्डुपुत्रस्य सैनिकाः ।
सह सैन्यानहं तांश्च प्रतीयां रणमूर्धनि ॥ 5-172-13(37787)
एते रथाश्चातिरथाश्च तुभ्यं
यथाप्रधानं नृप कीर्तिता मया।
तथा परे येऽर्धरथाश्च केचि-
त्तथैंव तेषामपि कौरवेन्द्र ॥ 5-172-14(37788)
अर्जुनं वासुदेवं च ये चान्ये तत्र पार्थिवाः।
सर्वांस्तान्वारयिष्यामि यावद्द्रक्ष्यामि भारत ॥ 5-172-15(37789)
पाञ्चाल्यं तु महाबाहो नाहं हन्यां शिखण्डिनम् ।
उद्यतेषमथो दृष्ट्वा प्रतियुध्यन्तमाहवे ॥ 5-172-16(37790)
लोकस्तं वेद यदहं पितुः प्रियचिकीर्षया ।
प्राप्तं राज्यं परित्यज्य ब्रह्मचर्यव्रते स्थितः ॥ 5-172-17(37791)
चित्राङ्गदं कौरवाणामाधिपत्येऽभ्यषेचयम्।
विचित्रवीर्यं च शिशुं यौवराज्येऽभ्यषेचयम् ॥ 5-172-18(37792)
देवव्रतत्वं विज्ञाप्य पृथिवीं सर्वराजसु ।
नैव हन्यां स्त्रियं जातु न स्त्रीपूर्वं कदाचन ॥ 5-172-19(37793)
स हि स्त्रीपूर्वको राजञ्शिखण्डी यदि ते श्रुतः ।
कन्या भूत्वा पुमाञ्चातो न योत्स्ये तेन भारत ॥ 5-172-20(37794)
सर्वांस्त्वन्यान्हनिष्यामि पार्थिवान्भरतर्षभ ।
यान्समेष्यामि समरे न तु कुन्तीसुतान्नृप ॥ ॥ 5-172-21(37795)

इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि द्विसप्तत्यधिकशततमोऽध्यायः ॥ ॥ समाप्तं च रथातिरथसंख्यानपर्व ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-172-19 देवव्रतत्वं ब्रह्मचारिव्रतवत्त्वम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.